क्व पुनस्तदुपयोग इति चेदाह—
गोष्ठीनामनेकविधत्वात् क्रीडारूपाः प्रीतिस्वभावा रसवत्यो या गोष्ठ्यः समवायाः काव्यालापरूपा विदग्धानां ता एव सुखेन कालप्रेरणारूपत्वाद् विनोदाः तेषु क्रीडागोष्ठीविनोदेषु । तज्ज्ञैः प्रहेलिकावेदिभिः सह आकीर्णे जनसंबाधे स्थाने क्वचिन्मन्त्रणे गुप्तभाषणे तद्विदामेव तत्र गूढार्थानां प्रहेलिकानां रहस्यभूतार्थप्रतिपत्तिः । इतरेषां तत्र सन्निहितानामपि किमिदमुच्यत इति तदनवगमात् आकीर्णेऽपि मन्त्रणं प्रहेलिकाभिः साध्यते । [सामर्थ्यं चेद्] ज्ञायतां किमस्माभिरुच्यत इति व्यामोहने तत्त्वानिश्चयादाकुलीकरणे, नर्मरूपे वापि विषये । चैवेत्यपि पाठः । सहोपयोगेन प्रयोजनेन वर्तत इति सोपयोगा उपकारिण्यः । ततस्ता अप्यलङ्कारवत् 108a काव्यलक्षणे चिन्तनीयाः । ततश्च यदुक्तं भामहेन—
- काव्यालङ्कारे २. २९-३० i have changed 29-20 to 29-30 (AO) !↩