उत्सर्ग[त]स्त्वसम्भवमिदमिति अपवादमुखेन निगमयन्नाह—

इदमस्वस्थचित्तानामभिधानमनिन्दितम् ।
इतरत्र कविः को वा प्रयुञ्जोतैवमादिकम् ॥ १३० ॥

इदमनन्तरोक्तमपार्थमभिधानं वचनम् अस्वस्थं चित्तमन्तः[करणं] येषामित्यस्वस्थचित्तानां मत्तोन्मत्तादीनां [अभिधानमनिन्दितं] स्यात् । अन्यत्र तु निन्दितम् । अथवा इतर[त्र] स्वस्थेषु विषये तत्कर्तृत्वकल्पनात् । एवमिदमनन्तरोक्तमपार्थमादिर्यस्य दशदाडिमादेस्तदेवमादिकमसम्बद्धं [वाक्यजातं] को नाम कविरकुशलोऽपि, प्रागेव निपुणः । प्रयुञ्जीत रचयेत् ? नैव [कश्चित् प्रयुङ्क्ते ] । मूलहानेरतिस्थूलत्वाच्च नात्र भ्रान्तिः सम्भाव्य[त] इति भावः । वाक्यविकारत्वात् तु इदमपि कथञ्चित् काव्ये सम्भवेदिति सम्भवमात्रकल्पनया स्वस्थेष्वपि दर्शितमिति ॥