एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् ।
विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते ॥ १३१ ॥

एकं च तद् वाक्यं च इत्येकं वाक्यं पद्यात्मकं गद्य[मयं] वा [तत्र] प्रबन्धे वा सर्गबन्धादिके यत्र क्वचिदादौ मध्ये अन्ते वा पूर्वापराभ्यां पराहतं पूर्वापरविरुद्धं वचनं व्यर्थमिति व्यर्थं नाम पठ्यते ज्ञायते अत्र दोषेषु प्रकरणात् काव्यसम्बद्धेषु मध्ये । अयमपि काव्यदोष इति यावत् । कुतः ? विरुद्धः प्रतिषिद्धः अर्थोऽभिधेयम् यस्मिन् तस्य भावः । तया हेतुभूतया । न तु विगतार्थतया, अपार्थमित्येव तस्य संग्रहादिति ॥