मनोरथप्रियालोकरसलोलेक्षणे सखि ।
आराद्वृत्तिरसौ माता न क्षमा द्रष्टुमीदृशम् ॥ १४० ॥

मनोरथस्य हृदयाभिलाषस्य प्रियो दयितः कश्चित् । तदेकालम्बनत्वात् तस्य आलोकनमालोकः । तत्र रसः । तेन लीले चपले ईक्षणे नेत्रे यस्या इति मनोरथप्रियालोकरसलीलेक्षणे सखीति सम्बोधनम् । यद् वा मनोरथप्रिय इष्टः । आलोकः प्रकाशो बाह्यः । तद्वदरसलोलेक्षणत्वं न संवृत्तम् [?] आत्मानमन्तस्तिष्ठन्तं नेच्छसि । किं तु यथेष्टं बहिरालोके भ्रमितुं वाच्छसीति अभिप्रायेण 116a एवमामन्त्र्यते । अत एव अत्रापि संशयः, कतमोऽर्थोऽत्राभिप्रेत इत्यनिश्चयात् । यदि नामैवम्, ततः किंमित्याह—आरादिति । ईदृशमेवंविधं तव स्वातन्त्र्यं मनोरथप्रियालोकरसलोलत्वम् । असौ तव माता आराद् वृत्तिरस्या इत्याराद्वृत्तिः । द्रष्टुं न क्षमा । अत्राप्याराच्छब्दस्य दूरान्तिकवृत्तित्वात्, असावित्यस्य च परोक्षापरोक्षयोर्वृत्तेः संशय्यते । किमसौ माता दूरवृत्तिरीदृशं द्रष्टुं न क्षमा न शक्नोति परोक्षत्वात्, किं वा असौ इयं माता आराद्वृत्तिरासन्नवर्तिनी ईदृशं द्रष्टुं न क्षमा न सहते । ईदृशं दृष्ट्वा सुतरां कुप्यतीति260 [अ]निश्चयः कश्चिंत् । तदीदृशं [स] संशयं द्रष्टव्यमिति ॥