तद् विवृणोति—

कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः ।
युवानमाकुलीकर्तुमिति दूत्याह नर्मणा ॥ १४३ ॥

उक्तेन प्रकारेण कामेन आर्ता घर्मेण तप्ता क्षपिता वा 116b इत्येवमनिश्चयकरं संशयजनकं वा वाक्यं दूती काचित् आह ब्रवीति । नर्मणा परिहासेन हेतुना इत्युक्तेन विधिना । किमसौ मद्वियोगात् कामार्ता घर्मतप्ता वा केवलमित्यनिश्चयलाभात्261 युवानं कञ्चित् कामेन आकुलीकर्तुं विधुरयितुम् । ततश्च संशय एवात्राभिधेयत्वादलङ्कारः ॥