अत्राप्यपवादमभिधत्ते—

यत्नः सम्बन्धविज्ञानहेतुः कोऽपि कृतो यदि ।
क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ॥ १४६ ॥

यत्नेन प्रतियत्नेन यथावस्थानातिक्रमेणान्यथा सम्बन्धयोजनमनुदेशः तस्य विज्ञानमवगमः । तस्य हेतुः कारणं कोऽपि कश्चित् तादृशः येन तत्र सम्बन्धो विज्ञायते । न यथोद्देशम् । यदि कृतः स्याद् यत्नः । सम्बन्धनिर्ज्ञानहेतुरित्यपि पठ्यते । तत्र सम्बन्धस्यायथोद्देशमनुदेशस्य निर्ज्ञाने हेतुः कारणभूतो यदि यत्नः कोऽपि262 कृतः स्यादिति व्याख्येयम् । तदा क्रमस्य यथोद्देशमनुदेशस्य लङ्घनमतिक्रममपि न केवलमलङ्घनम् । न दोषमाहुः स्मरन्ति सूरयः कवयः । यथेत्युदाहरति ॥