प्रसादविप19a र्ययमितरस्मिन् मार्गे दर्शयन्नाह—

व्युत्पन्नमिति गौडीयैर्नातिरूढमपीष्यते ।
यथानत्यर्जुनाब्जन्मसदृक्षाङ्को बलक्षगुः ॥ ४६ ॥

गौडीयैः पौरस्त्यैर्नातिरूढमपि अतिरूढमत्यन्तप्रसिद्धार्थम् । तद्विपरीतं नातिरूढमत्यन्ताप्रसिद्धार्थमपि । न केवलमप्रसिद्धमित्यपिशब्दः । अप्रसिद्धार्थमिष्यत एव । यद्यपि अतिशयेनाप्य प्रसिद्धार्थं गूढ़ामिधेयमप्रसन्नतरं तदपीष्यते इत्यर्थः । किं पुनः कारणं प्रसन्नं परित्यज्य अप्रसन्नमिष्यतो निष्कारणमेतन्न सम्भाव्यत इति चेदाह—व्युत्पन्नमिति कृत्वा प्रसिद्धं सुकरमेवायत्ने[ना]पूर्वशब्दकल्पनया व्युत्पन्नं संस्कृतं विशिष्टं तद् व्युत्पन्नमन्यै रेतादिष्यते इतीदमत्र कारणम् । यथेत्युदाहरति । वलक्षाः शुक्ला32 गावो रश्मयो यस्य स वलक्षगुश्चन्द्रः अत्यर्जुनं [अति]शुक्लं [न] तथाऽनत्यर्जुनं नीलम् अप्सु जन्म यस्य तदब्जन्म तच्च नीलसन्निधानान्नीलोत्पलम् । तेन सदृक्षः समानः [अङ्कः] चिह्नं यस्य सः । तथा नीलोत्पलसमानचिह्नश्चन्द्र इत्येतावत्यर्थे इयती व्युत्पत्तिः कृतेति व्युत्पन्ना गौडा इति ॥