समत्वं निर्देशयन्नाह—

समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः ।
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासोनयः ॥ ४७ ॥

बन्धेषु रचनासु विषये यदविषमम् समम् आदिमध्यान्तेषु चतुर्णामपि पादानां सजातीयबन्धत्वादित्यनूद्य तत्समं काव्यं ज्ञेयमिति विधीयते । कियन्तस्ते बन्धा येष्वविषमं समं स्यादिति चेदाह—त इत्यादि । ते बन्धा मृदुस्फुटमध्यमाः त्रयः सम्भवन्ति । मृदुरशिथिलः कोमलः । शिथिलकोमलस्य श्लेषविपर्ययत्वात् । यथोक्तं प्राक् । मृदुश्रुतिरिति यावत् । स्फुटोऽधिमात्रश्रुतिः । क्रुद्धोद्यस्य सुकुमारविपर्ययत्वात् । यद् वक्ष्यति—न्यक्षेणेत्यादि48 19b उन्मिश्रो मध्यमश्रुतिः । कः पुनरेषां प्रभव इत्याह—मृद्वित्यादि । मृदवो मृदुश्रुतयः ककारादयः यथासम्भवम् । स्फुटा अधिमात्रश्रुतयः घकारादयः । उन्मिश्रा मृदुस्फुटाः संसृष्टा ये वर्णास्तेषां विन्यासो रचना योनिः प्रभवो येषां ते तथा । ते च त्रयः मृदुमध्योऽधिमात्रभेदेन प्रत्येकं त्रिधा सम्भवन्ति । स[मे] तु तेषामेवा[वा]न्तरो भेदः स्यात् । मौलास्त्रय एव बन्धाः । तत्र पद्यं गद्यं द्विधा । यद्येकेन बन्धेन समाप्यते तदा49 समं काव्यम्, विजातीयबन्धकृतवैषम्याभावात् । अत एवोक्तं बन्धेष्वविषममिति । साम्यं पृथगुदाहृतम् ॥

  1. १. ७२
  2. पद्यैकेन बन्धिन समाध्यते तथा इत्याकरे ।