तदेतद् गौडीयं निगमयन्नाह—

इत्यनालोच्य वैषम्यमर्थालङ्कारडम्बरौ ।
अवेक्षमाणा ववृते पौरस्त्या काव्यपद्धतिः ॥ ५० ॥

34 इतीदृशं वैषम्यमसाम्यं विजातीयबन्धसंकरलक्षणम् अनालोच्य अदृष्ट्वाअस्वीकृत्येति यावत् । काव्यपद्धतिः काव्यरचना ववृते प्रवर्त्तते । कालस्येहानन्तत्वादद्यापि प्रवृत्तेः । कतमा पौरस्त्या । पुरः शब्देन पूर्वस्यां दिशि देशे वा व्यवस्थितो जन उक्तः । तस्मात्तत्र भवा [पौरस्त्या] । गौडीयेति यावत् । बन्धविषममेवंविधं काव्यं गौड़ाः कुर्वन्ति । न दाक्षिणात्या इत्यर्थः । कस्तर्हित्वया काव्यपक्षः स्वीकृतो येन काव्यपद्धतिरिति यदुच्यत इति चेदाह—अर्थालङ्कारो जात्यादि20b लक्षणः डम्बरोऽक्षरडम्बरः । 'गौडेष्वक्षरडम्बर' इति । तावुभौ [अवेक्ष]माणा स्वीकुर्वती ववृते इति प्रकृतम् । द्वयमेतत् गौडवर्त्मनि दृश्यते । शब्दालङ्कारस्तु बन्धसाम्यलक्षणो नेक्षत इत्यर्थः । एते च बन्धास्त्रयोऽपि यथावसरं विनियुक्ताः शोभामा[त]न्वन्तीति दाक्षिणात्यैरिष्यत एव ।

केचित्तु व्याचक्षते—उन्मिश्र एकैको बन्धो दाक्षिणात्यैरिष्यते । न तु मृदुः स्फुटश्च शैथिल्यकृच्छ्रोद्यत्वाभ्यां दुष्टत्वादिति । तदसत्, मृदुबन्धस्याप्यशिथिलस्य स्फुटबन्धस्यापि वा कृच्छ्रोद्यस्य रघुवंशजातकमालादौ दाक्षिणात्यमहाकविकाव्येषु दर्शनात् । तद्यथा—

ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालि[ङ्गि]तचन्दनासु ।
तमालपत्रास्तर[णा]सु रन्तुं कच्चिन्मनस्ते मलयस्थलीषु ॥
50
समीक्ष्यमाणक्षतजः क्षितीशः क्षपाचरैर्हेमवपुश्चकाशे ।
सन्ध्याभिताम्रैर्जलभारनम्रैः पयोधरैर्मेरुरिवोपगूढः ॥ इति ।
51

एतच्च दण्डिनाप्यत्यन्तसंराधितमिति श्रूयते । अपि च कियदिह वक्तुं शक्यते । सर्वमेव हि वैदर्भकाव्यं बन्धत्रयात्मकमुपलभ्यते । तदनेन व्याख्यानेन अवैदर्भः प्रसज्येत । नचैवम् । दृष्टविरोधात् । तदन[व]गाहितग्रन्थकाराभिप्रायस्यैतत् व्याख्या[न]मिति प्रतीमः । तस्मात्त्रयोऽपि बन्धा यथावसरमिष्यन्ते दाक्षिणात्यैः, बन्धवै[ष]म्यमेव तु तैर्बहु मन्यते ।

यत्पुनः—बन्धशैथिल्यदोषस्तु दर्शितः स[र्व]कोमल इति ।52 35 यच्च कृच्छ्रोद्यं न्यक्षेणेत्यादि53 तत्सुकुमारावसरे चिन्तितम् । बन्धशैथिल्यकरोऽनुप्रासः, दीप्तमिति च कृच्छ्रोद्यं गौडैर्बध्यते, न वैदर्भैरित्यन्यत्र वा तत्रार्थः । नत्वयं मृदुस्फुटबन्धनिषेधः । इति किं केन सं21a गतम् । तस्मात् त्रयोऽपि बन्धा दाक्षिणात्यैरिष्यन्ते, बन्धवैषम्यं तु नेष्टमिति ॥

  1. रघुवंशे ६. ६४
  2. जातकमालायाम् ८.४१
  3. १.६९
  4. १.७२