कः पुनरसावनुप्रासो यो गौडानां प्रियः? दाक्षिणात्यानां चेत्यवसरप्राप्तमनुप्रासं लक्षणतो लक्ष्यतश्च दर्शयन्नाह—

वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कारबोधनी यद्यदूरता ॥ ५५ ॥

वर्णस्य स्वरव्यञ्जनलक्षणस्य आवृत्तिः पुनःपुनरुच्चारणम् इत्यनूद्यानुप्रासो वेदितव्य इति विघीयते । प्रथमस्तस्य प्रथमप्रयुक्तस्याक्षरस्य 22b अनु पश्चादास उपक्षेपः प्रयोगः अनुप्रासः । क्वासौ सम्भवीत्याह—पादेष्वित्यादि । पादेषु पर्वापेक्षया पदेषु चेत्येतत्तु गद्यापेक्षया द्रष्टव्यम् । द्वयोरपि काव्यतयाधिकारात् । यद्वक्ष्यति—एतद् गद्यस्य जीवितमिति ।55

अनुष्टुबादौ बृहति च वृत्ते गद्ये च सर्वत्र सन्निकर्षतो द्रष्टव्यः यतः प्रत्यासन्नतयाऽनुप्रासो गृह्येत । यदाह—पूर्वानुभवेत्यादि । पूर्वस्य पूर्वप्रयुक्तस्य वर्णस्य अनुभवः श्रोत्रेण ग्रहणं पूर्वो वा पूर्वप्रयुक्तवर्णविषयत्वात् तस्य सम्बन्धी तदन्वितत्त्वात् । पूर्वानुभवेनाहितः संस्कारः पूर्वानुभवसंस्कार इति वा मध्यपदलोपी समास एव । वर्णः तज्जातीय इति वा एकाकारस्मार्त्तविकल्पजननशक्तिलक्षणः । तस्य बोधनी प्रबोधिका स्वानुरूपविकल्पोत्पादनाभिमुख्यकारिणी अदूरता प्रत्यासन्नता पुनस्तद्वर्णानुभवस्वभावा यदि भवति तदा वर्णावृत्तिरनुप्रासः पादेषु पदेषु च सम्पत्स्यते । अन्यथा तथाविधानुभवसंस्कारप्रबोधाभावात्तादृशविकल्पानुदयात् अनुप्रासो न38 स्यात् । तस्मात् स एवायं वर्ण आवृत्त इति यावतानुप्रासप्रतीतिः क्रमते तावदन्तरं कर्त्तव्यम् । अतिव्यवधाने त्वनुप्रासो न लभ्यते । यद्वक्ष्यति—न तु रामामुखाम्भोज56 इत्यादि । अत्र चानुभव एव प्रमाणम्, यथोक्तं प्राक् ॥

  1. १.८०
  2. १.५८