38 स्यात् । तस्मात् स एवायं वर्ण आवृत्त इति यावतानुप्रासप्रतीतिः क्रमते तावदन्तरं कर्त्तव्यम् । अतिव्यवधाने त्वनुप्रासो न लभ्यते । यद्वक्ष्यति—न तु रामामुखाम्भोज56 इत्यादि । अत्र चानुभव एव प्रमाणम्, यथोक्तं प्राक् ॥

यथाकथञ्चित्समानपदासत्तौ एव लक्ष्यतः प्रकाश्यं अनुप्रासमुदाहरन्नाह—

चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे ।
इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम् ॥ ५६ ॥

समानपदासत्तौ तु रसावहत्वं प्रसङ्गेनोक्तम् । समानपदासत्तिरपि तु लक्षण

  1. १.५८