चारु चान्द्रमसं भीरु बिम्बं पश्येदमम्बरे ।
मन्मनो मन्मथक्लान्तं निर्दयं कर्तुमुद्यतम् ॥ ५७ ॥

मम मनश्चित्तं मन्मथक्लान्तं कामातुरं निर्दयमत्यर्थं कर्तुम् । करोतिक्रियाविशेषणं निर्दयमिति । उद्यतमुत्थितमम्बरे नभसीदमेतत् चन्द्रमस इदं चान्द्रमसम् ऐन्दवम् बिम्बं मण्डलं पश्य भीरु प्रिये । इति चन्द्रोदयोपनीतां स्वामनङ्ग[पीडां] भङ्ग्या निवेदयति कश्चित् कामी । बकारस्य मकारसहितस्य, मकारस्य नकारेण सह, मकारस्य रेफस्यान्यस्य वा यथासम्भवमावृत्तिरनुप्रासः पादेषु ।

लीलास्मितमितालापकोमलं रमणीमुखम् ।
उपात्तपाणि संरक्तलोचनंलोक[रञ्जन]म् ॥
इत्यपरमुदाहरणम् ॥