यदुक्तं वाचि वस्तुन्यपि रसः स्थित58 इति तत्रेयता वाचि रसो दर्शितः । सम्प्रति वस्तुनि रसं विवरीतुमुपक्रमते—

कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥ ६२ ॥

काममित्यभ्युपगमे यदि नामेत्यर्थः । अलङ्कारोऽर्थालङ्कारः जात्यादिप्रभेदः सर्वोऽपि नैक एव कश्चित् अर्थे वस्तुनि रसं माधुर्यं निषिञ्चति आवहति । तथापि एवमपि इति विशेषविवक्षायां तां दर्शयति--अग्राम्यतेत्यादि । अग्राम्यतै24b वासभ्यतैव41 अर्थस्य भूयसात्यर्थं व्यापकत्वात् एनं रसनिषेकलक्षणं भारं धुरं वहति धत्ते नान्यत् । 59यद्यग्राम्यतैव रसस्तत् किं भेदो नोच्यते, सामान्यविशेषभावेन भेदसम्भवात् । रसो हि माधुर्यसामान्यम्, समानश्रुत्यनुप्रासाग्राम्यतादिसाधारणत्वेन [तस्य] प्रतीतेः । समानश्रुत्यादेस्तु विशेषाव्यावृत्तितयावगमात् । अन्यदप्येवंजातीयकमुन्नेयम् । जात्याद्यर्थालङ्कारमुक्तमपि काव्यमग्राम्यार्थमेकान्तमधुरमित्यर्थः ॥

  1. १. ५१
  2. तत्त्व आदर्शे