कीदृशी तावद् ग्राम्यता यद्विपर्ययोऽग्राम्यता वस्तुरसः स्यादिति ग्राम्यताप्रतिपक्षेण अग्राम्यतां दर्शयितुकामः ग्राम्यतां तावदुदाहरति—

कन्ये कामयमानं मां न त्वं कामयसे कथम् ।
इति ग्राम्योऽयमर्थात्मा वैरस्यायैव कल्पते ॥ ६३ ॥

कन्ये बाले त्वं कामयमानं सन्तं मां कथं किं न कामयसे नाभिलषसि । एवं नाम त्वं निष्ठुरेति । अयमेवंविधोऽर्थात्मा वस्तुरूपं ग्राम्यः अविदग्धोचितः । ततश्च वैरस्यायैव अमाधुर्यार्थमेव कल्पते सम्पद्यते न कथमपि रसवत्तायै । विरस एव तादृशोऽर्थ इति यावत् । वैरस्यं च न काव्योचितमिति नेदृशं कवयः स्पृ[श]न्तीत्याकूतम् ॥