कीदृशं तर्हि वस्तुरूपमग्राम्यम्, यद्रसावहमित्याह—

कामं कन्दर्पचण्डालो मयि वामाक्षि निष्ठुरः ।
त्बयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ ६४ ॥

वामाक्षि मञ्जुलोचने इति प्रियामन्त्रणम् । कन्दर्पः काम एव चण्डालः अकाण्डप्रहारित्वात् । मयि मद्विषये निष्ठुरः क्रूरं प्रहरतीत्यर्थः । कामं यदि नाम तथापि सानुग्रह एवास्माकं यत्त्वयि निर्मत्सरः निर्वैरः सानुक्रोशस्त्वां न बाधते । अत एवाहदिष्ट्येति आनन्दनिवेदनम् । अयमस्माकमानन्दो महान् यत्त्वयि न 25a प्रहरति । त्वत्सुखेनैव सुखिता वयम् । किं कन्दर्पचण्डालेन निष्ठुरेणापि कृतमिति वक्रोक्त्या आत्मनस्तद्विषयमनुगत[त्वं] तस्याश्च वैमुख्यमात्मनि दर्शयतीति अयमीदृशोऽर्थः अग्राम्यः सभ्यः काव्योचितः ततश्च रसावहः एकान्तमघुरः । एवंविधो वस्तुन्यग्राम्यतारसः प्रतिपत्तव्यः । अपरमत्रोदाह्रियते—

42
नन्वहं प्रणत एव, मानिनी सा भवन्तमवधीर्य वर्तते ।
मन्मथस्त्वमसि किं न तन्मथः कुत्र वा न तव काम ! वामता ॥ इति ॥