वाक्यार्थग्राम्यमुपहरति—

परं प्रहृत्य विश्रान्तः पुरुषो वीर्यवानिति ।
एवमादि न शंसन्ति मार्गयोरुभयोरपि ॥ ६७ ॥

43 परं शत्रुं प्रहृत्य हत्वा वीर्यवान् शूरः पुरुषो विश्रान्तो व्यवस्थित इत्येकोऽर्थस्तावदग्राम्यः । परम् अत्यर्थं प्रहृत्याभिहत्य वीर्यवानुपचितप्रधानधातुः पुरुषः विश्रान्तो विरतः पतित इत्यपरो ग्राम्यो वाक्यार्थः प्रतीयत इति वाक्यार्थग्राम्यमेतत् । एवमादीदृशमर्थग्राम्यं शब्दग्राम्यं चोभयोरपि वैदर्भगौडीययोर्मार्गयोरेकस्मिन्नपि न शंसन्ति नाद्रियन्ते तद्विद एव । तच्च प्रायोग्रहणसंगृहीतम् ।

कस्यचित् सहसोत्थानमग्रे विदधतो मदात् ।
पराघातप्रवृत्तस्य पतनायैव जायते ॥

इति वाक्यार्थग्राम्योदाहरणमपरमिति ॥