कान्तं विभजय31a न्नाह—

कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् ।
तच्च वार्तामिधानेषु वर्णनास्वपि दृश्यते ॥ ८५ ॥

सर्वस्य वैदर्भस्येतरस्य वा जगतो जनस्य कान्तं मनोहरं यत् तत् कान्तं विज्ञेयमितिविधिः कुत एवमित्याह—लौकिकार्थानतिक्रमादिति । लोकविदितोऽर्थो लौकिकम् । तस्य लौकिकस्यार्थस्याभिधेयस्यानतिक्रमात् अनुवृत्तेः कारणात् । लौकिकार्थानुवृत्तेर्हि काव्यं साधारणं सर्वेषां कान्तं भवति । तस्य विनियोगविषयं दर्शयन्नाह—तच्चेत्यादि । तच्च कान्तम् । अर्थान्तरसमुच्चये चकारः । तदाह—वार्ताभिधानेषु प्रवृत्तिनिवेदनेषु वर्णनास्वपि वस्तुगुणोद्भाविनीषु च दृश्यते प्रयुज्यते ॥