गौडाभिमतं वार्ताभिधानं वर्णनं च दर्शयन्नाह—

53
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ ८९ ॥

लोकातीतोऽलौकिक इव लोकरञ्नात् । व्युत्पन्नास्तु रज्यन्ते । अत एव इवशब्दप्रयोगः । योऽर्थोऽत्यर्थमतिमात्रमध्यारोप्यते परिकल्प्यते, यथा च सर्वजगत्कान्तं काव्यं जायते । अध्यारोपमात्रं तु पूर्वस्मिन्नपि विद्यते इति अत्यर्थमित्युक्तम् । विवक्षितः प्रयुक्तः काव्यरूपेण तेन तथाविधेनार्थेन अभिधेयेन तथाविधार्थानुवर्तिना काव्येनेति यावत् । विदग्धा व्युत्पन्ना अतितुष्यन्ति अनुरज्यन्ते सुतरां तथाविधोक्त्या, अहतबुद्धित्वात् । इतरेऽविदग्धा नातितुष्यन्ति, तादृशामभावितस्वभावत्वात् । असंभाव्यमेतदतिप्रसङ्गोऽयमिति नानुरज्यन्ते इत्यर्थः । अत, एव सर्वजगत्कान्तं न भवति, विदग्धानामेव रञ्जनात् । यथेत्युदाहरति—