54 किं तर्हीदमुच्यत इति आह—

इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् ।
प्रस्थानं प्राक्प्रणोतं तु सारमन्यस्य वर्त्मनः ॥ ९२ ॥

इदमीदृशमनन्तरोक्तं काव्यमत्युक्तिरित्युक्तमाख्यायते तज्ज्ञैरिति अत्युक्तिर्नामेदमित्यर्थः । एतदिदमनन्तरोक्तं गौडैः पौरस्त्यैरुपलालितमिष्टमत्यन्तं न वैदर्भसंमतमित्याह—प्रस्थानमित्यादि । प्राक्प्रणीतं पूर्वमुदाहृतं गृहाणि नामेत्यादि प्रस्थानं प्रकारः सारं जीवितमन्यस्य वैदर्भस्य वर्त्मनो मार्गस्य । तादृशं दाक्षिणात्यैः प्रयु[ज्य]त इति यावत् ॥

समाधिमधिकृत्याह—

अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना ।
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ ९३ ॥

अन्यस्य वस्तुनः प्रकृतापेक्षया । धर्मः गुणः प्रसिद्धस्ततस्तस्मान्मुख्यादन्यत्र गौणविषये सम्यक् साधु । लोकसीमानुवर्तित्वमेव सम्यक्त्वमिह द्रष्टव्यम् । आधीयतेऽध्यारोप्यते यत्र । केन ? लोकसीमानुरोधिना लोकप्रतीत्यनुवर्तिना कविना । यथा लोकप्रतीतिः समाद