समाधिमधिकृत्याह—

अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना ।
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ ९३ ॥

अन्यस्य वस्तुनः प्रकृतापेक्षया । धर्मः गुणः प्रसिद्धस्ततस्तस्मान्मुख्यादन्यत्र गौणविषये सम्यक् साधु । लोकसीमानुवर्तित्वमेव सम्यक्त्वमिह द्रष्टव्यम् । आधीयतेऽध्यारोप्यते यत्र । केन ? लोकसीमानुरोधिना लोकप्रतीत्यनुवर्तिना कविना । यथा लोकप्रतीतिः समाद33a धीत नान्यथेत्यर्थः । स एवंविधो धर्मः समाधिर्नाम काव्ये स्मृतो विज्ञेय इति विधिः । समाधीयतेऽध्यारोप्यते यस्मिन्निति समाधिः समारोपविषय उच्यते । यद्यपि समाधीयमानाद्धर्मादन्यो नास्ति समाधिः तथापि सामान्यविशेषभावेन भेदविवक्षया यत्रान्यधर्मः समाधीयते तत् समाधिरित्युक्तम् । गौणशब्दव्यवहारः काव्योपयोगी समाधिरिति यावत् । यथेत्युदाहरति ॥