क्रियत एव निर्दोषं काव्यं विनापि शास्त्रेणेत्याशङ्क्य सर्वं शास्त्रादेव गुणदोष[परिज्ञानं कर्तव्यमि]ति पूर्वोक्तक्रमेणार्थं प्रतिवस्तूपमया समर्थयन्नाह—

गुणदोषानशास्त्रज्ञः कथं विभजते जनः ।
किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ ८ ॥

गुणा विशेषा उपादेया अर्थाः पुरुषार्थसंगृहीतास्तद्विपरीता दोषाः ।......काव्यापेक्षया तु शब्दार्थालङ्कारस्वभावा गुणाः । दोषास्त्वपार्थत्वादयः । श्लेषविपर्यासादयश्च6 वैदर्भमार्गापेक्षया वक्ष्यमाणाः । अत एव सामान्येनाह—गुणदोषानशास्त्रज्ञः कथं विभजते जनःइति । सर्वमपि सा[मान्यं ए]कस्याप्यर्थस्य प्रकृतापेक्षया विशेषनिष्ठं भविष्यतीति निपुणेयं वाचोयुक्तिः । तान् गुणदोषान् यो न वेत्ति पुरुषः[स] कथं विभजते [विभक्तान्करो]ति एते गुणाः [एते दोषा इ]ति । य[तो गुणानाद]त्ते दोषान हास्यति कथञ्चित् । किं न विभजते, अशास्त्रज्ञो यतः । शास्त्रादेव हि गुणदोषा विवेच्यन्ते । यश्च शास्त्रं गुणदोषविवेक[विष]6a यं न वेत्ति, कथं तस्याप्रतिपन्नोपायस्य गुणदोषविवेकलक्षणमुपेयं सेत्स्यति । यथा त्वस्य रूपव......................किमन्धस्येत्यादि । अन्धस्य चक्षुर्विकलस्य रूपभेदानां नीलपीतादीनां रूपविशेषाणां उप[ल]ब्धिषु दर्शने[षु नाधिंकारः । इ ]ह सामान्येन रूपं नाम किञ्चिदस्तीति श्रुतिमात्रकमपश्यतः स्यात् । न तु रूपविशेषसाक्षात्का[रः । विशेषज्ञानाभावे] न च तत् क्वचिदुपयुज्यते । ततो यदाहमनुष्ठाना[?]भावाद् विभागेन तु सर्वात्मना शास्त्र......[विभ]जत इत्याह । तदेवमियता ग्रन्थेन शास्त्रादेव सर्वगुणदोषविवेकतो नान्यथा काव्येऽपि......