नायकेनैव वाच्यान्या नायकेनेतरेण वा ।
स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसतः ॥ २४ ॥

तयोराख्यायिकाकथयोरयं भेदः किलेति परमतसूचने । आख्यायिका नायकेनैव [स्वयम्]10b उच्यते, यस्य चरितप्रतिपादनार्थमाख्यायिका प्रवृत्ता । नान्येनेति वक्तृनियमः आख्यायिकायाम् । तदुक्तम्—वृत्तमाख्यायते यस्यां नायकेन स्वचेष्टितम् । इति ।23

अन्या कथा उक्ताया आख्यायिकाया अन्यत्वात् । नायकेन वाच्या यच्चरितप्रकाशनाय प्रवृत्ता, इतरेण वा नायकादन्येन वा, तत्सहायादिना वाच्येति न वक्तृनियमः कथायाम् । अयं तावदनयोर्भेदः ।

न[न्विय]माख्यायिका स्वयं नायकेनोच्यते न कथा । एवं हि स्वगुणोद्भावनप्रसङ्गः । तच्चानुचितमभिजातस्य । तदुक्तम्-स्वगुणाविष्कृतिं कुर्यादभिजातः कथं जनः । इति ।24

अत्राह—स्वगुणाविष्क्रियेत्यादि । अयं तावददोषः । यतः स्वस्यात्मनः स्वेषां वा गुणानां वंशस्य वीर्यादीनामाविष्क्रिया प्रस्ताववशात् कथनं न दोषः न दुष्यति । कस्य—भूतं यथावृत्तमर्थं स्वचा[रित्र्य]लक्षणं शंसतो ब्रुवतो नायकस्य । अत्राख्यायिकायां कथायां वा । तेन हि यथावृत्तं स्वचरितममिधेयं दोषरूपं गुणरूपमन्यद्वा, न विपरीतम् । तत्[अ]विपरीतं यथावृत्तमात्मनः कथयतः प्रस्ताववशप्राप्तं स्वगुणकथनं कथमाभिजात्यं हापयेत् । प्रत्युत विपरीतामिधाने आभिजात्यं हीयेत । आत्मव[ञ्चन]रूपं तु स्वगुणाविष्करणमनुचितमाभिजात्ये ।

17 ननु नात्र दोष इत्येतावदुक्तम् । गुणस्तु न कश्चित् । अयमेव गुणो यो दोषाभावः । तल्लक्षणत्वात्तस्य सर्वत्रेति यत्त्किञ्चिदेतम् । अ[नेन] चैतन्निरस्तं भङ्गया यदुक्तं भामहेन, आख्यायिकायां सुखदुःखरूपं स्वचरितं यथावृत्तमाख्यायते नायकेन न तु गुणरूपमिति । वृत्तमाख्यायते यस्यां नायकेन स्वचेष्ट11a नादिति ।

ननु सामान्यवचनमेतत् । न त्वयं विशेषो दृश्यते दुःखरूपं स्वचरितं वाच्यं न गुणरूपमिति । अर्थादेतदुक्तं तेन । यत्पश्चात् वक्ष्यति—स्वगुणाविष्कृतिं कुर्यादभिजातः25 इति । अन्यथा पूर्वापरविरोधस्तत्र स्यात् ॥

  1. काव्यालङ्कारे १. २६
  2. काव्यालङ्कारे १.२९
  3. काव्यालङ्कारे १.२९