संस्कृतादीनां स्वरूपं प्रतिपादयन्नाह,

संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः ।
तद्भवं तत्समं देशीत्यनेकः प्राकृतक्रमः ॥ ३३ ॥

देवानामियं दैवी वाक् भाषा संस्कृतमिति विज्ञायते । यद्येवं कथमिह संस्कृतं ज्ञातमिति चेदाह—अन्वाख्याता महर्षिभिरिति महद्भिरुदात्तैर्गुणमाहात्म्यात् ऋषिभिर्मुनिभिर्देशभाषावद्भिरन्वाख्याता अनुशिष्टा सतीह संस्कृतमिति ज्ञातेत्यर्थः । ततश्चैकप्रकारं संस्कृतं, प्राकृतं त्वनेकप्रकारम् । यदाह, तद्भवमित्यादि । प्राकृतस्य क्रमः प्रकारः अनेको भिन्नः कथं तद्भवं तस्मात् संस्कृतात् वर्णान्यत्वेन उत्पत्तिर्यस्य तत्तद्भवं शब्दभवमित्यर्थः । तच्च महिन्दसिन्धवबहिरादिकं यथोक्तं हरिवृद्धेन । तत्समम् तेन संस्कृतेन समं तत्समम्, प्राकृतशब्दमपीत्यर्थः । तच्च हरिहरकमलादिकं यथोक्तं तत्रैव । देशी प्राकृतं महाराष्ट्रप्रसिद्धम् । तदुक्तम्—

मरहट्ठादेससंकेतएहि सद्देहि भण्णए देसी इति ।
तच्च वोक्कणकं केल्लिचिरिहिरहिरसिच्छादिकम् ।
यथोक्तं तत्रैव । इत्येवमनेन रूपेणानेकः प्राकृतक्रम इति ॥