इदानीं यथोद्देशमेषां निर्देशं सविपर्ययं सोदाहरणं कुर्वन्नाह—

श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम् ।
शिथिलं मालतीमाला लोलालिकलिला यथा ॥ ४३ ॥

शिथिलस्य भाव शैथिल्यं बन्धलाघवम् । अस्पृष्टं त्यक्तम् । अस्पृष्टं शैथिल्यं 30 येन तदस्पृष्टशैथिल्यमित्यत्र श्लिष्टं विधीयते । यद् दृढबन्धकाव्यं तत् श्लिष्टं श्लेषयोगाद्वेदितव्यमिति । स्वतन्त्रस्य धर्मस्यासम्भवात् धर्मिनिष्ठः श्लेषो दर्शितः प्राक् । तन्मते विवक्षया स्वशब्देनोपात्तः । एवं प्रसादादिष्वप्यनुसर्त्तव्यम् । श्लेषविपर्ययं दर्शयन्नाह—अल्पप्राणेत्यादि । अल्पप्राणानि वर्गप्रथमादीनि अक्षराणि उत्तराणि भूयांसि यस्मिन् तैर्वोत्तरमधिकं तदनूद्य शिथिलं विधीयते । अल्पप्राणवर्णप्रायं तच्छिथिलं श्लिष्टविपरीतं काव्यं वेदितव्यम् इति । यथेत्युदाहरति । यथेदं शिथिलं तथान्यदप्येवंजातीयकं द्रष्टव्यमिति यथाशब्दार्थः । एवमुत्तरत्राप्यनुगन्तव्यम् । मालतीमाला जातिपुष्पस्त्रगियं लोलैः कुसुमसौरभलोलुपैरलिभिर्भ्रभरैः कलिला व्याप्ता इत्यर्थः ॥