उभयात्मक इति । स्त्रीरत्नसृष्टिरित्यनेन तत्त्वानुपाती, अपरेत्यनेनातत्त्वानुपाती प्रकाशितः ॥
अनिर्णयान्तो मिथ्यारूपो यथा—
अत्र किमिदमद्रेः शृङ्गं पवनो हरतीति मेघं प्रति कल्पनायां मिथ्यात्वाद्वस्तुनश्चानिर्णयादनिर्णयान्तो मिथ्यारूपो वितर्कः ॥
मिथ्यामिथ्यारूपौ बाधिताबाधितविषयौ । अबाधितोऽपि तर्को भवत्येव । यथा यद्यस्य नीलं रूपं नीलोत्पलमिति ॥
स एवामिथ्यारूपो यथा—
अत्र भगवत्पार्थयोरमिथ्यारूपत्वेन वेगवत्त्वादेकस्यानिर्णयान्तोऽमिथ्यारूपो वितर्कः ॥
अथ भगवत्पार्थयोरिति । भगवत्पार्थयोरवस्थानयोः समधिरोहारोहयोश्च न किंचिद्बाधकमस्ति चक्षुर्ज्ञानस्य विशेषः प्रत्यक्षत इति ॥
अनिर्णयान्त उभयात्मा यथा—
अत्र मायादीनां विकल्पानां मिथ्यारूपत्वान्मम शराः किराते न व्याप्रियन्त इत्यस्या मिथ्यारूपत्वादनिर्णयान्तत्वाच्चायमनिर्णयान्त उभयरूपो वितर्कः ॥