एकतो निरुद्भेदो यथा—
अत्रातिसौन्दर्येण देवीभ्रान्त्या शालिवनगोपिकामालोकयतां पथिकानां तदक्षिनिरीक्षणेऽयमभिप्रायः—‘शालिवनतिरस्कारेण देवमानुषयोर्विशेषभूतः पभ्द्यामेव भूमिस्पर्शो भूम्यस्पर्शो वा न लक्ष्यत इति तदक्षिणी एव पश्यामो यदियं निमिषति तदा मानुषीयं यदि न निमिषति तदा देवीयम् ।’ इति सर्वाङ्गसुन्दर्या अपि पथिकानामेव जायमानो भावो नेह केनचित्कर्मणोद्भिद्यत इत्येकतो निरुद्भेदश्चायं भावः ॥
नेह केनचिदिति । तथा चात्र शब्दान्तरस्य व्यापारो नास्तीत्यर्थः ॥
अभितो निरुद्भेदो यथा—
अत्रागच्छन्तीं हालिकस्नुषां दृष्ट्वा गृहपतिसूनोर्गोदावरीतटे यदवस्थानम्, यश्च तमवलोक्य तस्या दुरुत्तरमार्गेणावतरणारम्भस्तत्रायं तयोरभिप्रायो हस्तावलम्बदानेनावयोरङ्गसङ्गमः संपद्यतामिति । स चाभितो द्वयोरपि जायमानो नेह केनचित्कर्मणोद्भिद्यत इत्यभितो निरुद्भेदश्चायं भावः ।