अर्थान्तरन्यासालंकारः ।
अर्थान्तरन्यासं लक्षयति—
ज्ञेयमिति । किंचन किमपि वस्तु वाच्यं प्रस्तुत्य प्रक्रम्य तद्वस्तुसाधनसमर्थस्यान्यस्य वस्तुनो वाक्यार्थन्यास उपन्यासो यः सोऽर्थान्तरन्यासः । वैपरीत्यं विपर्ययः ॥
तेषु साधर्म्येण यथा—
अत्र परीतापापहरणक्षमस्य जलदाख्यस्य महावस्तुनो न्यसनं विधाय तत्साधनसाधर्म्येणैव तत्साधनक्षमं महापुरुषलक्षणं वस्त्वन्तरमुपन्यस्यति, सोऽयं साधर्म्येणार्थान्तरन्यासः ॥
पयोमुच इत्यादि । एते मेघाः शरीरिणां परितापं हरन्ति । ननु निश्चये । महतामात्मलाभोऽवस्थितिः परदुःखोपशान्त्यर्थं भवति । अत्र पूर्वार्धोपस्थापितार्थसिद्धये साधर्म्यपुरस्कारेणोत्तरार्धोपन्यासः स्फुट एव ॥
वैधर्म्येण यथा—
अत्रापि प्रियतमेन स्वयं कान्ताहृदये समारोपितायाः स्रजः प्रेम-