अत्र पङ्कजकुवलयबिम्बिफलचन्द्रमसां करनयनाघरवदनैर्यथासंख्यं पराजयत इति शब्दपरिपाठ्यैव पङ्कजानि पङ्के न्यस्तानि, कुवलयानि हृदे क्षिप्तानि, बिम्बं 220वृन्ते प्रकीर्णम्, चन्द्रो नभसि निरस्त इत्याधाराणामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यर्थपरिपाटी न्यग्भवति; सेयं शब्दप्रधानोभयपरिपाटी क्रमः ॥

  1. ‘मुहपूरिअतिणवज्ज वाली’ इतिदेशीनाममालनुसारेण सच्छिन्द्रं तृण वृन्तमपि भवति । ‘वृत्तौ’ ग घ