अत्रानयोक्तिभङ्ग्या ब्रह्माद्यस्तमयेऽप्यनस्तमितस्य भगवतो महेश्वरस्य प्रभावो वर्ण्यते, तत्र च ‘यदीयां लिपिं क्वापि क्वापि गण्माः पठन्ति पदशो नातिप्रसिद्धाक्षराम्’ इत्यनेनैव वाक्येऽस्मिन्नाकाङ्क्षोत्थाप्यते । सा च ‘विश्वं स्रक्ष्यति’ इत्यस्मिन्नीदृशी—ब्रह्माणां226 चतुर्युगसहस्रान्ते दिनमेकमिति मानेनैष वर्षशतजीवी विश्वं स्रक्ष्यति ब्रह्मेति ज्ञाप्यते, कपालं चास्य भगवतो भूषणं भविष्यति227 । ‘वक्ष्यति क्षितिम्’ इत्यस्मिन्नीदृशी—ब्रह्माणामयं228 (?) वर्षशतेनैकं दिनमिति मानेनैष पुरुषायुषजीवी क्षितिं वक्ष्यति विष्णुरिति ज्ञाप्यते, कपालं चास्य भगवतो भूषा भविष्यतीति । एवम् ‘अपामीशिष्यते—’ इत्यादिषु वरुणकामयमेन्द्रविषयत्वेन योजनीयम् । सेयमनेकप्रकारेण ब्रह्मादीनां साक्षादनभिधानेन साकाङ्क्षोक्तिभङ्गि ॥

  1. ‘ब्रह्माणश्च’ इति युक्तं प्रतिभाति । ‘चतुर्युगसहस्रान्ते ब्रह्माणो दिनमुच्यते’ इत्यत्र प्रमाणम्
  2. ‘भविष्यतीति’ क ख
  3. ‘ब्रह्माणामेवं वर्षशतेन’ इति भवेत् । यत्र ब्राह्मे वर्षे मानुषचतुर्युगसहस्रात्मकमेकं दिनमित्यर्थः