अज्जवि इत्यादि । “अद्यापि बालो दामोदक इतीति जल्पिते यशोदया । कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवध्वा ॥” यशोदया कृष्णबाल्य उद्भाविते व्रजवधूः स्मेरं दृष्ट्वा काचित् कस्यैचित् कथयति—अद्यापीति । यशोदयाद्यापि दामोदरो बाल एवेत्युक्ते कयाचिद्नोपवध्वा कृष्णमुखे प्रेषितं न्यस्तमक्षि यत्र हसिते एवं निभृतमेकान्ते हसितम् । रहो रहस्यमेकान्तचेष्टा । मतल्लिका प्रशस्ता । ‘मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि’ इत्यमरः । निधुवनं सुरतम् । ‘निधुवनमायोजनमाहुः’ इति हारावली । अत्रानेकेनार्थजातेव साकाङ्क्षता व्यक्तैव ॥ इति पर्यायालंकारनिरूपणम् ॥