विमलिअ इत्यादि । ‘'विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् । अप्राप्ततुङ्गशिखरं त्रिभुवनहरणप्रवर्धितेनापि हरिणा ॥” इह सुवेलं कीदृशम् । विषपरपतिना शेषेणादृष्टो मूलस्य छेदः शेषो यस्य तम् । कीदृशेन । विमर्दितं 543 विमलितं निर्मलीकृतं वा रसातलं येन तेन । पुनः कीदृशम् । हरिणा त्रिविक्रमेणाप्यप्राप्ततुङ्गशिखरम् । कीदृशेन । त्रिभुवनहरणाय सर्वतो भावाद्वर्धितेन वृद्धिं गतेन । मृद्नता मर्दयता । अत्र पर्वतानुभावातिशयविवक्षयातिशयः स च तैरनुभूयमान एव ॥