रणेत्यादि । “रणदुर्जयो दशमुखः सुरा अवध्या अहो त्रिभुवनस्यासौ । पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम् ॥” इह स्फुटिताधरं व्यक्तीकृताधरं यथा स्यादेवं विभीषणेन रावणभ्रात्रा निश्वसितं निश्वासस्त्यक्तः स्फुटं व्यक्तमेव । कुतः । दशास्यो रणे दुर्जयः, सुरा देवा अमरत्वादवध्याः । अहो आश्चर्यमसौ त्रिभुवनस्यानर्थः पततीति । इतिर्हेतौ । अत्र दशास्यसुरयोरन्योन्यक्रियातिशयोक्तेरन्योन्यातिशयः । सकलभुवनक्षयकारितया लोकसीमातिपातः ॥ इत्यतिशयोक्त्यलंकारनिरूपणम् ॥