दोषेत्यादि । प्रकृष्टो दोषो दूषणं यस्य स दुर्जनो मां किं न बाधते, किंतु बाधत एव । मां कीदृशम् । अप्रियं तस्य द्वेष्यम् । कीदृशः । इत्थमनुभूयमानेन प्रकारेण राज्ञा भूपेन सह संबध्नन् युञ्जन् । आत्मानमित्यध्याहार्यम् । अत्र कर्मवद्भावो न कृतः संबध्यमान इत्यर्थत्वात् । राज्ञा कीदृशेन । दोषाणां दूषणानामाकरेण स्थानेन । क्षत्रपथः क्षत्रियमार्गस्तत्र वर्तितुं शीलं यस्य तेन । पश्चान्नकारसंबन्धः । क्षत्रियधर्मशून्येनेत्यर्थः । पक्षे प्रदोषो रजनीमुखं मामप्रियं प्रियारहितं किं न बाधते किंतु बाधत एव । कीदृशः । राज्ञा चन्द्रेणेत्थं संबध्यमानः । कीदृशेन । दोषाकरेण रात्रिकरेण । नक्षत्रपथं व्योम तदवस्थितिशीलेन च । अत्र राजपदमभिन्नम् । शेषपदानां भेदाद्भिन्नपदश्लेषः ॥