अत्र ‘आकर्ण्यन्ते, श्लिष्यन्ते च’ इति क्रियापदद्वितयस्य प्राधान्यतः समुच्चयेनोपात्तस्य ‘मधुरा—’ इत्यादिभिः श्लिष्टपदैः ‘कोकिलागिरः', ‘असितेक्षणाः’ इति वा विशेष्यैकपदवर्जं पर्यायतः संबन्धो भवति । तद्यथा—आकर्ण्यन्ते । काः । कोकिलागिरः । कीदृश्यः । मधुराः, रागवर्धिन्यः, कोमलाः । पुनरपि किंभूताः । आसिते उपवेशिते निश्चलीकृते अन्तःप्रमोदानुभावादीक्षणे याभिस्तास्तथा । सर्वोऽपि हि मधुरं शब्दमाकर्णयन् निश्चलाक्षो भवति । श्लिष्यन्ते च । काः । असितेक्षणाः हरिणचक्षुषः । किंभूताः । मदकलाः, कोकिलागिरः, कोमलाः, रागवर्धिन्यः, मधुरा इति । सोऽयं द्वयोर्विभिन्नक्रिययोर्भिन्नार्थे242 च रूपिणां पदार्थानामुपश्लेषो भिन्नक्रियः श्लेष उच्यते ॥

  1. ‘भिन्नार्थैकरूपाणाम्’ ख