कृष्णेत्यादि । हे कलभाषिणि मधुरवचने, तव दृष्टिः कस्य विश्वसनीयत्वं विश्वासविषयतां याति किंतु न कस्यापि । अत्र हेतुः कृष्णा श्यामा, अर्जुना धवला, अनुरक्ता प्रान्तलोहिता च । प्रादेशिकोऽयं क्रमः । कर्णपर्यन्तगामिनी च । पक्षे कृष्णे हरौ, अर्जुने पार्थे चानुरक्तानुरागवती कर्णपक्षपातिनी च या सा विरुद्धोभयगता कथं विश्वसनीया भवति । ‘वलक्षो धवलोऽर्जुनः’ इत्यमरः । अत्र कर्तुरेकतयाभिन्नकारकता ॥ इति श्लेषालंकारनिरूपणम् ॥