णावज्जइ इत्यादि । “नाबध्यते दुर्ग्राह्या दृष्टे यस्मिन् भ्रुकुटिका यत्र न च (चा) व्याहारो गृह्यते आभाषमाणे । विक्षुभ्यतेऽभिनीयमाने यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवितम् ॥” इह यस्मिन् दृष्टे दुर्ग्रहा भ्रुकुटिर्नाबध्यते समन्तान्न बध्यते यत्राभाषमाणेऽव्याहारो न च गृह्यते । यत्राभिनीयमाने वयस्यया स न क्षुभ्यते तं मानं मम कथय यदि मम जीवनमिच्छसि । अत्रानाकाङ्क्षितरूपस्याभिप्रायस्य कथनम् ॥