अन्यभावना यथा—
अत्र मेढ्रभावनया मुसलरूपस्योक्तत्वादिदमन्यभावनाभिधानं भाविकम् ॥
दंसणेत्यादि । “दंशनेन वलितं दृढकं विबन्धनं दीर्घं सुपरिणाहम् । भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम् ॥” इहोत्तमस्त्रीणां गृहे ईदृशं मुसलं स्वायत्तं भवति । कीदृशम् । दंशने धान्यादिमर्दने वलितं लग्नम् । दृढकं दृढम् । स्वार्थे कन् । विगतबन्धनं दीर्घं सुपरिणाहमतिस्थूलं च । मेढ्रपक्षे दंशने भगमर्दने वलितं संनद्धं दृढं विगतबन्धनं दीर्घमतिस्थूलं च । अत्र मेढ्राभिप्रायेण मुसलोक्तेरन्यभावना ॥
अन्यापदेशो यथा—
अत्र परक्षेत्रस्य घस्मरवृषनिवारणापदेशेन चिरात्परिज्ञात 249उपपतिर्निवार्यते, तदिदमन्यापदेशाख्यं भाविकम् ॥
आसाइअ इत्यादि । “आस्वादितमज्ञातेन यावत्तावतैव बन्धय धृतिम् । उपरमस्व वृषभात्र रक्षयित्वा गृहपतिक्षेत्रम् ॥” इह हे वृषभ, गृहपतिक्षेत्रं रक्षयित्वा त्वमुपरमस्व क्रीडय । अज्ञातेन त्वया यावदेवास्वादितं तावतैव धृतिं बन्धय । अत्र वृषभनिवारणव्याजेनोपपतिनिवारणमन्यापदेशः ॥