आसाइअ इत्यादि । “आस्वादितमज्ञातेन यावत्तावतैव बन्धय धृतिम् । उपरमस्व वृषभात्र रक्षयित्वा गृहपतिक्षेत्रम् ॥” इह हे वृषभ, गृहपतिक्षेत्रं रक्षयित्वा त्वमुपरमस्व क्रीडय । अज्ञातेन त्वया यावदेवास्वादितं तावतैव धृतिं बन्धय । अत्र वृषभनिवारणव्याजेनोपपतिनिवारणमन्यापदेशः ॥