निःशेषेत्यादि । हे दूति, इतः स्थानात्त्वं वापीं पुष्करिणीं स्नातुं गतासि । तस्याधमस्यान्तिकं न गतासि । हे मिथ्यावादिनि, हे सुहृज्जनस्याज्ञातदुःखागमे । स्नानचिह्नान्याह—स्तनतटं निःशेषच्युतचन्दनमशेषक्षरितचन्दनमस्ति । तवाधरोऽपि त्यक्तलौहित्यः । तव नेत्रेऽत्यर्थमञ्जनशून्ये । तथा तवेयं तन्वी कृशा तनुः 551 शरीरं पुलकिता रोमाञ्चवती च । अत्र स्नानसंभोगयोस्तुल्यचिह्नस्योपदर्शनेन प्रकरणपरिप्राप्तं दूतीदुश्चेष्टितमुद्भिन्नम्, न च प्राग्वव्द्यक्तता ॥