अत्र ‘दृशोर्म्लानता, गण्डयोः पाण्डुरत्वम्, श्वासानां दैर्ध्यम्’ इत्युत्कण्ठाचिह्ननिह्नवाय योऽयमविनयवत्या नीलाञ्जनादिप्रयोगस्तस्य 255तथाभ्युपगमेऽपि ‘अङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते’ इति योऽयं सखीव्याहारस्तेन तदभिप्राय उद्भिन्नोऽनुद्भिन्नश्च भवतीत्युभयरूपोऽयमुद्भेदः । तेऽमी त्रयोऽप्युद्भेदा भाविकान्न भिद्यन्ते ॥

  1. ‘तत्त्वाभ्युपगमेऽपि’ क ख