अम्लानेत्यादि । किंतु हे सखि, तवाङ्गानाममुमुद्भटं क्रशिमानं कृशत्वं को न नामोत्प्रेक्षते किंतून्नयत एव । यद्यपि तव दृशावम्लाने म्लानिहीने उत्पन्ने इव कोमले मनोज्ञे स्तः । कीदृशे । नीलकज्जलेनाञ्चिते । यतः कर्पूरस्य छुरणात् संबन्धात् पाण्डिमा पाण्डुरत्वं गण्डफलके संवेल्लितः संबद्धः । श्वासाश्च कन्दुकक्रीडनार्थं या भ्रमिर्भ्रमणं तत्प्रभवाः सन्तु । अङ्गानां कीदृशानाम् । प्रभावाहिनां प्रभां दीप्तिं वोढुं धर्तुं शीलं येषां तेषाम् । सहजरम्याणामित्यर्थः । अविनयवत्या असत्याः । अत्राविनयवत्या आशयः किंचिव्द्यक्तीकृतः । किंचिच्चाव्यक्तीकृत इत्युभयरूपता ॥ इति भाविकालंकारनिरूपणम् ॥