रजोभिरित्यादि । स कीदृशः । हयखुरक्षुण्णै रजोभिर्मेघतुल्यैर्हस्तिभिश्च गगनं 554 भूतलमिव, भूतलं गगनतलमिव कुर्वन् । अत्र यथा नरसिंहजातौ सिंहनराङ्गभागयोर्व्यक्ताव्यक्तरूपं स्फुरणं तथा परिवृत्त्यलंकारे हेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः ॥