606 595भाममन्यूत्प्रासादयः, हासस्य स्मितहसितविहसितादयः, 596सुप्तप्रलयमत्यादीनां तु597 स्वप्नमरणशमादयो भेदा जायन्ते । तत्र यद्यपि ‘अजित्वा सार्णवामुर्वीम्’ इत्यनेन युद्धवीरः, ‘अनिष्ट्वा विविधैर्मखैः’ इत्यनेन दानवीरः, ‘अदत्त्वा चार्थमर्थिभ्यः’ इत्यनेन दयावीरश्चोत्साहरूपेण निष्पत्तौ वर्णितः598, 599तथाप्येकशोऽप्येते रसनिष्पत्त्यै प्रभवन्तीति प्रदर्श्यन्ते ॥
तेषु युद्धवीरो यथा—
‘एतां पश्य 600पुरःस्थलीमिह किल क्रीडाकिरातो हरः
कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते-
र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् १०४’
दानवीरो यथा—
‘दधिक्षीरघृताम्भोधिव्यञ्जनस्पृहणीयया ।
महादानोत्सवे यस्य हन्तकारायितं भुवा ॥ १०५ ॥’
दयावीरो यथा—
‘स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं यतस्व ।
दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः ॥ १०६ ॥’