608
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ ११० ॥’
दृष्टदशनकान्ति हसितं यथा—
तदेव सविशेषं 615हसितं यथा—
‘च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
द्व्यं चक्रीकृत्य प्रहसितमुखी616 शैलतनया ।
अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ ११२ ॥’
सुप्तविशेषः स्वप्नो यथा—
‘जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां617
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ ११३ ॥’
मूर्च्छाविशेषो मरणं यथा—
‘क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वंला ।
निमिमील नरेन्द्रसुन्दरी हृतचन्द्रा तमसेव शर्वरी ॥ ११४ ॥’