‘कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत्क्वचिदस्ति635 तत्परिणमत्यस्मासु शक्रादपि ।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः ॥ १२५ ॥’
  1. ‘चेत्क्वचिदस्ति’ मुद्रितमहावीरचरिते