618
लीलादिषु प्रियजनचेष्टानुकृतिलींला यथा—
[यद्यत्करोषि यद्यज्जल्पसि यद्यन्निरीक्षसे ।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न संपद्यते ॥]
नेत्रभ्रूवक्त्रकर्मणां विशेषणे लसनं विलासो यथा—
‘सभ्रूविलासमथ सोऽयमितीरयित्वा
सप्रत्यभिज्ञमिव मामवलोक्य तस्याः ।
अन्योन्यभावचतुरेण सखीजनेन
मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः ॥ १५३ ॥’
विभूषणादीनामनादरविन्यासो विच्छित्तिर्यथा—
‘अङ्गानि चन्दनरजःपरिधूसराणि
ताम्बूलरागसुलभोऽधरपल्लवश्च ।
अच्छाञ्जने च नयने वसनं तनीयः
कान्तासु भूषणमिदं विभवश्च शेषः ॥ १५४ ॥’
विभूषणादीनामस्थानप्रयोगो विभ्रमो यथा—
‘चकार काचित्सितचन्दनाङ्के
काञ्चीकलापं स्तनभारपृष्ठे ।
प्रियं प्रति प्रेषितचित्तवृत्ति-
र्नितम्बबिम्बे च 688बभार हारम् ॥ १५५ ॥’