621
स एव पुरुषे यथा—
[लोकः खिद्यते खिद्यतु वचनीयं भवति भवतु तन्नाम ।
एहि निमज्ज पार्श्वे पुष्पवति नैति मे निद्रा ॥]
आदिग्रहणेन भावादयो गृह्यन्ते । तेषु भावाः स्त्रियां यथा—
‘तावच्चिअ रइसमए महिलाणं विब्भमा विराअंति ।
जाव ण कुवलअदल700सच्छहाइँ मउलेंति णअणाइं ॥ १६८ ॥’
[तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
यावन्न कुवलयदलसच्छायानि मुकुलीभवन्ति नयनानि ॥]
व्याजः पुंसो यथा—
‘अलिअपसुत्तविणिमीलिअच्छ दे सुहअ मज्झ ओआसं ।
गंडपरिउंबणापुलइअंग ण पुणो चिराइस्सं ॥ १६९ ॥’
[701अलीकप्रसुप्तविनिमीलिताक्ष हे सुभग ममावकाशम् ।
गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरयिष्यामि ॥]
विस्रम्भभाषणं स्त्रिया यथा—
‘जाओ सो वि विलक्खो मए वि हसिऊण गाढमुवगूढो ।
पढमोसरिअस्स णिअंसणस्स गंठिं विमग्गन्तो ॥ १७० ॥’
[जातः सोऽपि विलक्षो मयापि हसित्वा गाढमुपगूढः ।
702प्रथमापसृतस्य निवसनस्य ग्रन्थिं विमार्गयमाणः ॥]
- ‘झूरइ’ क ‘झूरउ’ ख↩
- ‘णिमज्जसु’ मुद्रितगाथासप्त॰↩
- ‘णिसिज्जसु’ क ख, ‘णिसज्जसु’ ग घ↩
- ‘सच्छाहाइँ’ ख↩
- ‘देहीति शेषः । देसु धअ मज्झ’ क्वचित् । अत्र हे धव, ममावकाशं देहीति योज्यम् ।’ केचित्तु ‘देसु हअमज्झ’ इति पदच्छेदः हतमध्य अङ्गविन्यासरुद्धमध्य=देहि अवकाशम् अर्थान्मम इत्याहुः’ इति गाथासप्तशत्या व्याख्याता गङ्गाधरभट्ट इति गा. स. व्याख्याता↩
- ‘प्रथमेत्यनुरागातिशयेन प्रियस्पर्शात्पूर्वमेव स्खलितस्य वसनस्य ग्रन्थिम्’↩