अथ संभोगः । तत्र नायकयोः प्रागसंगतयोः संगतवियुक्तयोर्वा 627 मिथः समागमे प्रागुत्पन्नस्तदानींतनो वा रत्याख्यः स्थायिभावोऽभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैर्हर्ष-धृति-स्मृति-मतिप्रभृतिभिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमजलक्रीडापर्वतोपदेशप्रसाधनगृह729मधुपानेन्दूदयादिभिरुद्दीपनविभावैरुद्दीप्यमानः, सविभ्रमभ्रूकटाक्षविक्षेपालापसंभ्रमस्मितादिभिरनुभावैरभिव्यज्यमान ईप्सितमासादयन्, जिहासितं वा जिहानः, प्राप्तप्राप्यप्रकर्षारम्भः संभोगश्रृङ्गाराख्यां लभते । स चतुर्धा—प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति ॥

  1. ‘प्रसाधनग्रह'ग घ