628
करुणानन्तरो यथा—
[न मृतास्मि मृतेऽपि प्रिये दृष्टः पुनः प्रियतमो जीवन्त्या ।
इति लज्जा च प्रहर्षस्तस्या हृदये न संमाति ॥]
तेऽमी चत्वारोऽपि संभोगाश्चतुर्भिरेव विप्रलम्भैः प्रकर्षमापद्यन्ते ॥
तेषु प्रथमानुरागेण यथा—
‘इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते
736नोच्छ्वासा हृदयं दहन्त्यशिशिरा नोपैति कार्श्यं वपुः ।
स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते
तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ १९२ ॥’
मानेन यथा—
[रतिविग्रहे कुण्ठीकृता धाराः प्रेमखङ्गस्य ।
अन्नमयानीव स्विद्यन्ति मानसानि ज्ञायन्ते मिथुनानाम् ॥]
प्रवासेन यथा—
‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ'
मासानेतान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं739
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ १९४ ॥’