630
पुंसो यथा—
[स तव कृतेन सुन्दरि तथा क्षीणः सुमहिलो हालिकपुत्रः ।
यथास्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम् ॥]
माने स्त्रिया यथा—
[कर्णर्जुका वराकी साद्य त्वया कृतापराधेन ।
जृम्भायितरूक्षप्रलोकितानि दिवसेन शिक्षिता ॥]
पुंसो यथा—
‘अविभाविअरअणिमुहं तस्स अ सच्चरिअविमलचन्दुज्जोअम् ।
जाअं पिआविरोहे बढंताणुअमूढलक्खं हिअअम ॥ २०३ ॥’
[अविभावितरजनीमुखं तस्याश्च सच्चरितविमलचन्द्रोद्दयोतम् ।
जातं प्रियाविरोधे वर्धमानानुशयमूढलक्ष्यं हृदयम् ॥]
प्रवासे स्त्रिया यथा—
[प्रियसंस्मरणप्रलुठद्बाष्पधारानिपातभीतया ।
दीयते वक्रग्रीवया दीपकः पथिकजायया ॥]